Skip to main content

रत्नाक्रंद श्रावकाचार (आचार्य समन्तभद्र) | Ratnakand Shravakachar

नम: श्रीवद्र्धमानाय निर्धूतकलिलात्मने।
सालोकानां त्रिलोकानां यद्विद्या दर्पणायते॥ 1॥

देशयामि समीचीनं, धर्मं कर्मनिबर्र्हणम्।
संसारदु:खत: सत्त्वान्, यो धरत्युत्तमे सुखे॥ 2॥

सद्दृष्टिज्ञानवृत्तानि, धर्मं धर्मेश्वरा विदु:।
यदीयप्रत्यनीकानि, भवन्ति भवपद्धति:॥ 3॥
श्रद्धानं परमार्थाना-माप्तागम-तपोभृताम् ।
त्रिमूढापोढ- मष्टाङ्गं, सम्यग्दर्शन-मस्मयम्॥ 4॥

आप्तेनोच्छिन्नदोषेण, सर्वज्ञेनागमेशिना।
भवितव्यं नियोगेन, नान्यथा ह्याप्तता भवेत्॥ 5॥

क्षुत्पिपासा-जरातङ्क -जन्मान्तक-भयस्मया:।
न रागद्वेषमोहाश्च, यस्याप्त: स प्रकीत्र्यते॥ 6॥

परमेष्ठी परंज्योतिर्र्विरागो विमल: कृती।
सर्वज्ञोऽनादिमध्यान्त:, सार्व: शास्तोपलाल्यते॥ 7॥

अनात्मार्थं विना रागै:, शास्ता शास्ति सतो हितम्।
ध्वनन् शिल्पिकरस्पर्शान्मुरज: किमपेक्षते॥ 8॥

आप्तोपज्ञमनुल्लङ्घ्य- मदृष्टेष्टविरोधकम्।
तत्त्वोपदेशकृत्सार्वं, शास्त्रं कापथघट्टनम्॥ 9॥

विषयाशावशातीतो, निरारम्भोऽपरिग्रह:।
ज्ञानध्यानतपोरक्त स् तपस्वी स प्रशस्यते॥ 10॥

इदमेवेदृशमेव, तत्त्वं नान्यन्न चान्यथा।
इत्यकम्पायसाम्भोवत्, सन्मार्गेऽसंशयारु चि:॥ 11॥

कर्मपरवशे सान्ते, दु:खैरन्तरितोदये।
पापबीजे सुखेऽनास्था, श्रद्धानाकाङ्क्षणा स्मृता॥ 12॥

स्वभावतोऽशुचौ काये, रत्नत्रयपवित्रिते।
निर्जुगुप्सा गुणप्रीतिर्मता निर्विचिकित्सिता॥ 13॥

कापथे पथि दु:खानां, कापथस्थेऽप्यसम्मति:।
असम्पृक्ति-रनुत्कीर्ति-रमूढा दृष्टिरुच्यते॥ 14॥

स्वयं शुद्धस्य मार्गस्य, बालाशक्तजनाश्रयाम्।
वाच्यतां यत्प्रमार्जन्ति, तद्वदन्त्युपगूहनम्॥ 15॥

दर्शनाच्चरणाद्वापि,चलतां धर्मवत्सलै:।
प्रत्यवस्थापनं प्राज्ञै:, स्थितीकरणमुच्यते॥ 16॥

स्वयूथ्यान्प्रति सद्भाव-सनाथापेतकैतवा।
प्रतिपत्तिर्यथायोग्यं, वात्सल्यमभिलप्यते॥ 17॥

अज्ञानतिमिरव्याप्तिमपाकृत्य यथायथम्।
जिनशासनमाहात्म्यप्रकाश: स्यात्प्रभावना॥ 18॥

तावदञ्जनचौरोऽङ्गे, ततोऽनन्तमति: स्मृता।
उद्दायनस्तृतीयेऽपि, तुरीये रेवती मता॥ 19॥

ततो जिनेन्द्रभक्तोऽन्यो, वारिषेणस्तत: पर:।
विष्णुश्च वज्रनामा च, शेषयोर्लक्ष्यतां गतौ॥ 20॥

नाङ्गहीनमलं छेत्तुं, दर्शनं जन्मसन्ततिम् ।
न हि मन्त्रोऽक्षरन्यूनो, निहन्ति विषवेदनाम्॥ 21॥

आपगा-सागर-स्नानमुच्चय: सिकताश्मनाम्।
गिरिपातोऽग्निपातश्च, लोकमूढं निगद्यते ॥ 22॥

वरोपलिप्सयाशावान्, रागद्वेषमलीमसा:।
देवता यदुपासीत, देवतामूढमुच्यते ॥ 23॥

सग्रन्थारम्भहिंसानां, संसारावर्तवर्तिनाम्।
पाषण्डिनां पुरस्कारो, ज्ञेयं पाषण्डिमोहनम्॥ 24॥

ज्ञानं पूजां कुलं जातिं, बलमृद्धिं तपो वपु:।
अष्टावाश्रित्य मानित्वं, स्मयमाहुर्गतस्मया:॥ 25॥

स्मयेन योऽन्यानत्येति, धर्मस्थान् गर्विताशय:।
सोऽत्येति धर्ममात्मीयं,न धर्मो धार्मिकैर्विना॥ 26॥

यदि पापनिरोधोऽन्यसम्पदा किं प्रयोजनम्।
अथपापास्रवोऽस्त्यन्यसम्पदा किं प्रयोजनम्॥ 27॥

सम्यग्दर्शनसम्पन्नमपि मातङ्गदेहजम्।
देवा देवं विदुर्भस्मगूढाङ्गारान्तरौजसम् ॥ 28॥

श्वापि देवोऽपि देव: श्वा, जायते धर्मकिल्विषात्।
काऽपि नाम भवेदन्या, सम्पद्धर्माच्छरीरिणाम्॥ 29॥

भयाशास्नेहलोभाच्च, कुदेवागमलिङ्गिनाम्।
प्रणामं विनयं चैव, न कुय्र्यु: शुद्धदृष्टय:॥ 30॥

दर्शनं ज्ञानचारित्रात्साधिमानमुपाश्नुते ।
दर्शनं कर्णधारं तन्मोक्षमार्गे प्रचक्षते॥ 31॥

विद्यावृत्तस्य सम्भूतिस्थितिवृद्धिफलोदया:।
न सन्त्यसति सम्यक्त्वे, बीजाभावे तरोरिव॥ 32॥

गृहस्थो मोक्षमार्गस्थो, निर्मोहो नैव मोहवान्।
अनगारो गृही श्रेयान्, निर्मोहो मोहिनो मुने:॥ 33॥

न सम्यक्त्वसमं किञिचता्-त्रैकाल्ये त्रिजगत्यपि।
श्रेयोऽश्रेयश्च मिथ्यात्वसमं नान्यत्तनूभृताम्॥ 34॥

सम्यग्दर्शनशुद्धा, नारकतिर्यङ्नपुंसकस्त्रीत्वानि।
दुष्कुल-विकृताल्पायुर्दरिद्रतां च व्रजन्ति नाप्यव्रतिका:॥ 35॥

ओजस्तेजो-विद्यावीर्ययशोवृद्धि -विजयविभवसनाथा:।
माहाकुला महार्था, मानवतिलका भवन्ति दर्शनपूता:॥ 36॥

अष्टगुणपुषिटतुष्टा, दृषिटविशिष्टा: प्रकृष्टशोभाजुष्टा:।
अमराप्सरसां परिषदि, चिरं रमन्ते जिनेन्द्रभक्ता: स्वर्गे॥ 37॥

नवनिधिसप्तद्वय रत्नाधीशा: सर्वभूमिपतयश्चक्रम्।
वर्तयितुं प्रभवन्ति, स्पष्टदृश: क्षत्रमौलिशेखरचरणा:॥ 38॥

अमरासुरनरपतिभिर्यमधरपतिभिश्च नूतपादाम्भोजा:।
दृष्ट्या सुनिशिचतार्था, वृषचक्रधरा भवन्ति लोकशरण्या:॥ 39॥

शिव-मजर-मरुज-मक्षय-मव्याबाधं विशोकभयशङ्कम्।
काष्ठागतसुखविद्या-विभवं विमलं भजन्ति दर्शनशरणा:॥ 40॥

देवेन्द्रचक्रमहिमानममेयमानं, राजेन्द्रचक्रमवनीन्द्रशिरोऽर्चनीयम्।
धर्मेन्द्रचक्रमधरीकृतसर्वलोकं, लब्ध्वा शिवं च जिनभक्तिरुपैति भव्य:॥ 41॥

अन्यूनमनतिरिक्तं , याथातथ्यं विना च विपरीतात्।
नि:संदेहं वेद यदाहुस्तज्ज्ञानमागमिन: ॥ 42॥

प्रथमानुयोगमर्थाख्यानं चरितं पुराणमपि पुण्यम्।
बोधिसमाधिनिधानं, बोधति बोध: समीचीन:॥ 43॥

लोकालोकविभक्ते र्युगपरिवृत्तेश्चतुर्गतीनां च।
आदर्शमिव तथामति रवैति करणानुयोगं च ॥ 44॥

गृहमेध्यनगाराणां, चारित्रोत्पत्तिवृद्धिरक्षाङ्गम्।
चरणानुयोगसमयं, सम्यग्ज्ञानं विजानाति ॥ 45॥

जीवाजीवसुतत्त्वे, पुण्यापुण्ये च बन्धमोक्षौ च।
द्रव्यानुयोगदीप:, श्रुतविद्यालोकमातनुते ॥ 46॥

मोहतिमिरापहरणे, दर्शनलाभादवाप्तसंज्ञान:।
रागद्वेषनिवृत्त्यै, चरणं प्रतिपद्यते साधु: ॥ 47॥

रागद्वेषनिवृत्तेर्हिंसादिनिवत्र्तना कृता भवति।
अनपेक्षितार्थवृत्ति:, क: पुरुष: सेवते नृपतीन्॥ 48॥

हिंसानृतचौर्येभ्यो, मैथुनसेवापरिग्रहाभ्यां च।
पापप्रणालिकाभ्यो, विरति: संज्ञस्य चारित्रम्॥ 49॥

सकलं विकलं चरणं, तत्सकलं सर्वसङ्गविरतानाम्।
अनगाराणां विकलं, सागाराणां ससङ्गानाम् ॥ 50॥

गृहिणां त्रेधा तिष्ठत्यणु-गुण-शिक्षाव्रतात्मकं चरणम्।
पञ्चत्रिचतुर्भेदं त्रयं यथासंख्य-माख्यातम् ॥ 51॥

प्राणातिपातवितथव्याहारस्तेयकाममूच्र्छाभ्य: ।
स्थूलेभ्य: पापेभ्यो, व्युपरमणमणुव्रतं भवति॥ 52॥

सङ्कल्पात्कृतकारितमननाद्योगत्रयस्य चरसत्त्वान्।
न हिनस्ति यत्तदाहु:, स्थूलवधाद्विरमणं निपुणा:॥ 53॥

छेदनबन्धनपीडऩमतिभारारोपणं व्यतीचारा:।
आहारवारणापि च, स्थूलवधाद्व्युपरते: पञ्च॥ 54॥

स्थूलमलीकं न वदति, न परान् वादयति सत्यमपि विपदे।
यत्तद्वदन्ति सन्त:, स्थूलमृषावादवैरमणम्॥ 55॥

परिवादरहोभ्याख्या, पैशुन्यं कूटलेखकरणं च।
न्यासापहारितापि च, व्यतिक्रमा: पञ्च सत्यस्य ॥ 56॥

निहितं वा पतितं वा, सुविस्मृतं वा परस्वमविसृष्टं।
न हरति यन्न च दत्ते, तदकृशचौय्र्यादुपारमणम् ॥ 57॥

चौरप्रयोगचौरार्था- दानविलोपसदृशसनिमश्रा:।
हीनाधिकविनिमानं, पञ्चास्तेये व्यतीपाता: ॥ 58॥

न तु परदारान् गच्छति, न परान् गमयति च पापभीतेर्यत्।
सा परदारनिवृत्ति:, स्वदारसन्तोषनामापि॥ 59॥

अन्यविवाहाकरणानङ्गक्रीड़ा-विटत्व-विपुलतृष:।
इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचारा:॥ 60॥

धनधान्यादिग्रन्थं, परिमाय ततोऽधिकेषु नि:स्पृहता।
परिमितपरिग्रह: स्यादिच्छापरिमाणनामापि॥ 61॥

अतिवाहनातिसंग्रह-विस्मयलोभातिभारवहनानि।
परिमितपरिग्रहस्य च, विक्षेपा: पञ्च लक्ष्यन्ते॥ 62॥

पञ्चाणुव्रतनिधयो, निरतिक्रमणा: फलन्ति सुरलोकम्।
यत्रावधिरष्टगुणा, दिव्यशरीरं च लभ्यन्ते ॥ 63॥

मातङ्गो धनदेवश्च, वारिषेणस्तत: पर:।
नीली जयश्च सम्प्राप्ता:, पूजातिशयमुत्तमम् ॥ 64॥

धनश्रीसत्यघोषौ च, तापसारक्षकावपि।
उपाख्येयास्तथा श्मश्रु-, नवनीतो यथाक्रमम्॥ 65॥

मद्यमांसमधुत्यागै:, सहाणुव्रतपञ्चकम्।
अष्टौ मूलगुणानाहुर्गृहिणां श्रमणोत्तमा:॥ 66॥

दिग्व्रतमनर्थदण्ड, व्रतं च भोगोपभोगपरिमाणम्।
अनुबृंहणाद्गुणाना-, माख्यान्ति गुणव्रतान्यार्या:॥ 67॥

दिग्वलयं परिगणितं, कृत्वातोऽहं बहिर्न यास्यामि।
इति सङ्कल्पो दिग्व्रत-,मामृत्यणुपापविनिवृत्त्यै॥ 68॥

मकराकरसरिदटवी, गिरिजनपदयोजनानि मर्यादा:।
प्राहुर्दिशां दशानां, प्रतिसंहारे प्रसिद्धानि॥ 69॥

अवधेर्बहिरणुपाप-, प्रतिविरतेर्दिग्व्रतानि धारयताम्।
पञ्चमहाव्रतपरिणति-,मणुव्रतानि प्रपद्यन्ते ॥ 70॥

प्रत्याख्यानतनुत्वात्, मन्दतराश्चरणमोहपरिणामा:।
सत्त्वेन दुरवधारा, महाव्रताय प्रकल्प्यन्ते॥ 71॥

पञ्चानां पापानां, हिंसादीनां मनोवच:कायै:।
कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥ 72॥

ऊध्र्वाधस्तात्तिर्यग्व्यतिपाता: क्षेत्रवृद्धि-रवधीनाम्।
विस्मरणं दिग्िवरतेरत्याशा: पञ्च मन्यन्ते॥ 73॥

अभ्यन्तरं दिगवधेरपार्थिकेभ्य: सपापयोगेभ्य:।
विरमणमनर्थदण्ड-, व्रतं विदुव्र्रतधराग्रण्य:॥ 74॥

पापोपदेश-हिंसादानापध्यानदु:श्रुती: पञ्च।
प्राहु: प्रमादचर्या-, मनर्थदण्डानदण्डधरा:॥ 75॥

तिर्यक्क्लेशवणिज्या-, हिंसारम्भप्रलम्भनादीनाम् ।
प्रसव: कथाप्रसङ्ग: , स्मत्र्तव्य: पाप उपदेश:॥ 76॥

परशुकृपाणखनित्र-, ज्वलनायुधशृङ्गिशृंखलादीनाम्।
वधहेतूनां दानं, हिंसादानं ब्रुवन्ति बुधा:॥ 77॥

वधबन्धच्छेदादे,द्र्वेषाद्रागाच्च परकलत्रादे:।
आध्यानमपध्यानं, शासति जिनशासने विशदा:॥ 78॥

आरम्भसङ्गसाहस-, मिथ्यात्वद्वेषराग-मदमदनै:।
चेत: कलुषयतां श्रुति-, रवधीनां दु:श्रुतिर्भवति॥ 79॥

क्षितिसलिलदहनपवना-,रम्भं विफलं वनस्पतिच्छेदम्।
सरणं सारणमपि च, प्रमादचर्यां प्रभाषन्ते॥ 80॥

कन्दर्पं कौत्कुच्यं, मौखर्यमतिप्रसाधनं पञ्च।
असमीक्ष्य-चाधिकरणं, व्यतीतयोऽनर्थदण्डकृद्विरते:॥ 81॥

अक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम्।
अर्थवतामप्यवधौ, रागरतीनां तनूकृतये॥ 82॥

भुक्त्वा परिहातव्यो,भोगो भुक्त्वा पुनश्च भोक्तव्य:।
उपभोगोऽशनवसनप्रभृति: पाञ्चेन्द्रियो विषय:॥ 83॥

त्रसहतिपरिहरणार्थं, क्षौदंर पिशितं प्रमादपरिहृतये।
मद्यं च वर्जनीयं, जिनचरणौ शरणमुपयातै:॥ 84॥

अल्पफलबहुविघातान्, मूलक-माद्र्र्राणि शृङ्गवेराणि।
नवनीतनिम्बकुसुमं, कैतक-मित्येव-मवहेयम्॥ 85॥

यदनिष्टं तद् व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात्।
अभिसन्धिकृता विरतिर्विषयाद्योग्याद्व्रतं भवति॥ 86॥

नियमो यमश्च विहितौ, द्वेधा भोगोपभोगसंहारात्।
नियम: परिमितकालो, यावज्जीवं यमो ध्रियते॥ 87॥

भोजन-वाहन-शयन-स्नान-पवित्राङ्गरागकुसुमेषु ।
ताम्बूल-वसन-भूषण-मन्मथ-सङ्गीतगीतेषु॥ 88॥

अद्य दिवा रजनी वा, पक्षो मासस्तथर्तुरयनं वा।
इति कालपरिच्छित्या, प्रत्याख्यानं भवेनिनयम:॥ 89॥

विषयविषतोऽनुपेक्षा, नुस्मृतिरतिलौल्यमतितृषाऽनुभवो।
भोगोपभोगपरिमा, व्यतिक्रमा: पञ्च कथ्यन्ते ॥ 90॥

देशावकाशिकं वा, सामयिकं प्रोषधोपवासो वा।
वैयावृत्त्यं शिक्षा, व्रतानि चत्वारि शिष्टानि ॥91॥

देशावकाशिकं स्यात् कालपरिच्छेदनेन देशस्य।
प्रत्यहमणुव्रतानां, प्रतिसंहारो विशालस्य॥ 92॥

गृहहारिग्रामाणां, क्षेत्रनदीदावयोजनानां च।
देशावकाशिकस्य, स्मरन्ति सीम्नां तपोवृद्धा:॥ 93॥

संवत्सरमृतुरयनं, मासचतुर्मासपक्षमृक्षं च।
देशावकाशिकस्य, प्राहु: कालावधिं प्राज्ञा:॥ 94॥

सीमान्तानां परत:, स्थूलेतरपञ्चपापसन्त्यागात्।
देशावकाशिकेन च, महाव्रतानि प्रसाध्यन्ते॥ 95॥

प्रेषणशब्दानयनं, रूपाभिव्यक्तिपुद्गलक्षेपौ।
देशावकाशिकस्य, व्यपदिश्यन्तेऽत्यया: पञ्च॥ 96॥

आसमयमुक्ति-मुक्तं, पञ्चाघाना-मशेषभावेन।
सर्वत्र च सामयिका:, सामयिकं नाम शंसन्ति॥ 97॥

मूर्धरुहमुष्टिवासो, बन्धं पय्र्यङ्कबन्धनं चापि।
स्थानमुपवेशनं वा, समयं जानन्ति समयज्ञा:॥ 98॥

एकान्ते सामयिकं, निव्र्याक्षेपे वनेषु वास्तुषु च।
चैत्यालयेषु वापि च, परिचेतव्यं प्रसन्नधिया॥ 99॥

व्यापार-वैमनस्याद्वि, निवृत्त्यामन्तरात्म -विनिवृत्त्या।
सामयिकं बध्नीया-, दुपवासे चैकभुक्ते वा ॥ 100॥

सामयिकं प्रतिदिवसं, यथावदप्यनलसेन चेतव्यम्।
व्रतपञ्चक-परिपूरण,- कारणमवधानयुक्तेन॥ 101॥

सामयिके सारम्भा:, परिग्रहा नैव सन्ति सर्वेऽपि।
चेलोपसृष्टमुनिरिव, गृही तदा याति यतिभावम्॥ 102॥

शीतोष्णदंशमशकपरीषहमुपसर्गमपि च मौनधरा:।
सामयिकं प्रतिपन्ना, अधिकुर्वीरन्नचलयोगा:॥ 103॥

अशरण-मशुभ-मनित्यं,दु:ख-मनात्मानमावसामि भवम्।
मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके॥ 104॥

वाक्कायमानसानां, दु:प्रणिधानान्यनादरास्मरणे।
सामयिकस्यातिगमा, व्यज्यन्ते पञ्च भावेन ॥ 105॥

पर्वण्यष्टम्यां च, ज्ञातव्य: प्रोषधोपवासस्तु ।
चतुरभ्यवहाय्र्याणां, प्रत्याख्यानं सदेच्छाभि: ॥ 106॥

पञ्चानां पापाना-, मलंक्रियारम्भगन्धपुष्पाणाम्।
स्नानाञ्जननस्याना-मुपवासे परिहृतिं कुय्र्यात् ॥ 107॥

धर्मामृतं सतृष्ण:, श्रवणाभ्यां पिबतु पाययेद्वान्यान्।
ज्ञानध्यानपरो वा, भवतूपवसन्नतन्द्रालु: ॥ 108॥

चतुराहारविसर्जन-, मुपवास: प्रोषध: सकृद्भुक्ति:।
स प्रोषधोपवासो, यदुपोष्यारम्भमाचरति॥ 109॥

ग्रहणविसर्गास्तरणान्यदृष्टमृष्टान्यनादरास्मरणे ।
यत्प्रोषधोपवास-, व्यतिलङ्घनपञ्चकं तदिदम् ॥ 110॥

दानं वैयावृत्यं, धर्माय तपोधनाय गुणनिधये।
अनपेक्षितोपचारो-, पक्रियमगृहाय विभवेन॥ 111॥

व्यापत्तिव्यपनोद:, पदयो: संवाहनं च गुणरागात्।
वैयावृत्यं यावानुपग्रहोऽन्योऽपि संयमिनाम् ॥ 112॥

नवपुण्यै: प्रतिपत्ति: सप्तगुणसमाहितेन शुद्धेन।
अपसूनारम्भाणा,-मार्याणामिष्यते दानम् ॥ 113॥

गृहकर्मणापि निचितं, कर्म विमाषिर्ट खलु गृहविमुक्तानाम्।
अतिथीनां प्रतिपूजा, रुधिरमलं धावते वारि॥ 114॥

उच्चैर्गोत्रं प्रणते,र्भोगो दानादुपासनात्पूजा।
भक्ते: सुन्दररूपं स्तवनात्कीर्तिस्तपोनिधिषु॥ 115॥

क्षितिगतमिव वटबीजं, पात्रगतं दानमल्पमपि काले।
फलतिच्छायाविभवं, बहुफलमिष्टं शरीरभृताम्॥ 116॥

आहारौषधयोरप्युपकरणावासयोश्च दानेन।
वैयावृत्यं ब्रुवते, चतुरात्मत्वेन चतुरस्रा: ॥ 117॥

श्रीषेणवृषभसेने, कौण्डेश: सूकरश्च दृष्टान्ता:।
वैयावृत्यस्यैते, चतुर्विकल्पस्य मन्तव्या: ॥ 118॥

देवाधिदेवचरणे, परिचरणं सर्वदु:खनिर्हरणम्।
कामदुहि कामदाहिनि, परिचिनुयादादृतो नित्यम् ॥ 119॥

अर्हच्चरणसपर्या, महानुभावं महात्मनामवदत्।
भेक: प्रमोदमत्त:, कुसुमेनैकेन राजगृहे॥ 120॥

हरितपिधाननिधाने, ह्यनादरास्मरणमत्सरत्वानि।
वैयावृत्यस्यैते, व्यतिक्रमा: पञ्च कथ्यन्ते॥ 121॥

उपसर्गे दुर्भिक्षे, जरसि रुजायां च नि:प्रतीकारे।
धर्माय तनुविमोचनमाहु: सल्लेखनामार्या: ॥ 122॥

अन्त:क्रियाधिकरणं, तप:फलं सकलदर्शिन: स्तुवते।
तस्माद्यावद्विभवं, समाधिमरणे प्रयतितव्यम्॥ 123॥

स्नेहं वैरं सङ्गं, परिग्रहं चापहाय शुद्धमना:।
स्वजनं परिजनमपि च, क्षान्त्वा क्षमयेत्प्रियैर्वचनै:॥ 124॥

आलोच्य सर्वमेन:, कृतकारित-मनुमतं च निव्र्याजम्।
आरोपयेन्महाव्रत, -मामरणस्थायि नि:शेषम्॥ 125॥

शोकं भयमवसादं, क्लेदं कालुष्यमरतिमपि हित्वा।
सत्त्वोत्साहमुदीर्य च, मन: प्रसाद्यं श्रुतैरमृतै:॥ 126॥

आहारं परिहाप्य, क्रमश: स्निग्धं विवद्र्धयेत्पानम्।
स्निग्धं च हापयित्वा, खरपानं पूरयेत्क्रमश:॥ 127॥

खरपानहापनामपि, कृत्वा कृत्वोपवासमपि शक्त्या।
पञ्चनमस्कारमनास्तनुं, त्यजेत्सर्वयत्नेन॥ 128॥

जीवितमरणाशंसे , भयमित्रस्मृति-निदाननामान:।
सल्लेखनातिचारा:, पञ्च जिनेन्द्रै: समादिष्टा:॥ 129॥

नि:श्रेयस-मभ्युदयं, निस्तीरं दुस्तरं सुखाम्बुनिधिम्।
नि:पिबति पीतधर्मा, सर्वैर्दु:खै-रनालीढ:॥ 130॥

जन्म-जरा-मय-मरणै:,शोकै-र्दु:खै-र्भयैश्च परिमुक्तम्।
निर्वाणं शुद्धसुखं नि:श्रेयस-मिष्यते नित्यम्॥ 131॥

विद्यादर्शनशक्ति -, स्वास्थ्यप्रह्लादतृप्तिशुद्धियुज:।
निरतिशया निरवधयो, नि:श्रेयसमावसन्ति सुखम्॥ 132॥

काले कल्पशतेऽपि च, गते शिवानां न विक्रिया लक्ष्या।
उत्पातोऽपि यदि स्यात्,त्रिलोकसंभ्रान्तिकरणपटु:॥ 133॥

नि:श्रेयस-मधिपन्नास्,त्रैलोक्यशिखा-मणिश्रियं दधते।
निष्किट्टिकालिकाच्छवि,-चामीकरभासुरात्मान:॥ 134॥

पूजार्थाज्ञैश्वर्यै, र्बल-परिजनकामभोगभूयिष्ठै:।
अतिशयित-भुवन-मद्भुत,-मभ्युदयं फलति सद्धर्म:॥ 135॥

श्रावकपदानि देवै-,रेकादश देशितानि येषु खलु।
स्वगुणा: पूर्वगुणै: सह, संतिष्ठन्ते क्रमविवृद्धा:॥ 136॥

सम्यग्दर्शनशुद्ध:, संसारशरीरभोगनिर्विण्ण:।
पञ्चगुरुचरणशरणो, दार्शनिकस्तत्त्वपथगृह्य:॥ 137॥

निरतिक्रमण-मणुव्रत-, पञ्चकमपि शीलसप्तकं चापि।
धारयते नि:शल्यो, योऽसौ व्रतिनां मतो व्रतिक:॥ 138॥

चतुरावत्र्तत्रितयश्,चतु:प्रणाम: स्थितो यथाजात:।
सामयिको द्विनिषद्यसित्र-, योगशुद्धसित्रसन्ध्यमभिवन्दी॥ 139॥

पर्वदिनेषु चतुष्र्वपि, मासे मासे स्वशक्तिमनिगुह्य।
प्रोषधनियमविधायी, प्रणधिपर: प्रोषधानशन:॥ 140॥

मूलफलशाकशाखा,करीरकन्दप्रसूनबीजानि ।
नामानि योऽत्ति सोऽयं, सचित्तविरतो दयामूर्ति:॥ 141॥

अन्नं पानं खाद्यं, लेह्यं नाश्नाति यो विभावर्याम्।
स च रात्रिभुक्तिविरत:, सत्त्वेष्वनुकम्पमानमना:॥ 142॥

मलबीजं मलयोनिं, गलन्मलं पूतिगन्धि बीभत्सम्।
पश्यन्नङ्गमनङ्गाद्वि-, रमति यो ब्रह्मचारी स:॥ 143॥

सेवाकृषिवाणिज्य-, प्रमुखादारम्भतो व्युपारमति।
प्राणातिपातहेतो, र्योऽसावारम्भविनिवृत्त:॥ 144॥

बाह्येषु दशसु वस्तुषु, ममत्वमुत्सृज्य निर्ममत्वरत:।
स्वस्थ: सन्तोषपर: परिचितपरिग्रहाद्विरत:॥ 145॥

अनुमतिरारम्भे वा, परिग्रहे ऐहिकेषु कर्मसु वा।
नास्ति खलु यस्य समधी,-रनुमतिविरत: स मन्तव्य:॥ 146॥

गृहतो मुनिवनमित्वा, गुरूपकण्ठे व्रतानि परिगृह्य।
भैक्ष्याशनस्तपस्यना्, नुत्कृष्टश्चेलखण्डधर:॥ 147॥

पाप-मरातिर्धर्मो, बन्धुर्जीवस्य चेति निशिचन्वन्।
समयं यदि जानीते, श्रेयो ज्ञाता ध्रुवं भवति॥ 148॥

येन स्वयं वीतकलङ्कविद्या, दृषिटक्रियारत्नकरण्डभावम्।
नीतस्तमायाति पतीच्छयेव, सर्वार्थसिद्धिसित्रषु विष्टपेषु॥ 149॥

सुखयतु सुखभूमि:, कामिनं कामिनीव,
सुतमिव जननी मां, शुद्धशीला भुनक्तु।
कुलमिव गुणभूषा, कन्यका संपुनीता-
जिजनपतिपदपद्म, प्रेक्षिणी दृषिटलक्ष्मी:॥ 150॥

Comments

Popular posts from this blog

भक्तामर स्तोत्र (संस्कृत) || BHAKTAMAR STOTRA ( SANSKRIT )

श्री आदिनाथाय नमः भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ 2॥ >> भक्तामर स्तोत्र ( हिन्दी) || आदिपुरुष आदीश जिन, आदि सुविधि करतार ... || कविश्री पं. हेमराज >> भक्तामर स्तोत्र ( संस्कृत )-हिन्दी अर्थ अनुवाद सहित-with Hindi arth & English meaning- क्लिक करें.. https://forum.jinswara.com/uploads/default/original/2X/8/86ed1ca257da711804c348a294d65c8978c0634a.mp3 बुद्ध्या विनापि विबुधार्चित - पाद - पीठ! स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥ 3॥ वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्, कस्ते क्षम: सुर - गुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त -काल - पवनोद्धत-...

सामायिक पाठ (प्रेम भाव हो सब जीवों से) | Samayik Path (Prem bhav ho sab jeevo me) Bhavana Battissi

प्रेम भाव हो सब जीवों से, गुणीजनों में हर्ष प्रभो। करुणा स्रोत बहे दुखियों पर,दुर्जन में मध्यस्थ विभो॥ 1॥ यह अनन्त बल शील आत्मा, हो शरीर से भिन्न प्रभो। ज्यों होती तलवार म्यान से, वह अनन्त बल दो मुझको॥ 2॥ सुख दुख बैरी बन्धु वर्ग में, काँच कनक में समता हो। वन उपवन प्रासाद कुटी में नहीं खेद, नहिं ममता हो॥ 3॥ जिस सुन्दर तम पथ पर चलकर, जीते मोह मान मन्मथ। वह सुन्दर पथ ही प्रभु मेरा, बना रहे अनुशीलन पथ॥ 4॥ एकेन्द्रिय आदिक जीवों की यदि मैंने हिंसा की हो। शुद्ध हृदय से कहता हूँ वह,निष्फल हो दुष्कृत्य विभो॥ 5॥ मोक्षमार्ग प्रतिकूल प्रवर्तन जो कुछ किया कषायों से। विपथ गमन सब कालुष मेरे, मिट जावें सद्भावों से॥ 6॥ चतुर वैद्य विष विक्षत करता, त्यों प्रभु मैं भी आदि उपान्त। अपनी निन्दा आलोचन से करता हूँ पापों को शान्त॥ 7॥ सत्य अहिंसादिक व्रत में भी मैंने हृदय मलीन किया। व्रत विपरीत प्रवर्तन करके शीलाचरण विलीन किय...

भक्तामर स्तोत्र (हिन्दी/अंग्रेजी अनुवाद सहित) | Bhaktamar Strotra with Hindi meaning/arth and English Translation

 भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ 1. झुके हुए भक्त देवो के मुकुट जड़ित मणियों की प्रथा को प्रकाशित करने वाले, पाप रुपी अंधकार के समुह को नष्ट करने वाले, कर्मयुग के प्रारम्भ में संसार समुन्द्र में डूबते हुए प्राणियों के लिये आलम्बन भूत जिनेन्द्रदेव के चरण युगल को मन वचन कार्य से प्रणाम करके । (मैं मुनि मानतुंग उनकी स्तुति करुँगा) When the Gods bow down at the feet of Bhagavan Rishabhdeva divine glow of his nails increases shininess of jewels of their crowns. Mere touch of his feet absolves the beings from sins. He who submits himself at these feet is saved from taking birth again and again. I offer my reverential salutations at the feet of Bhagavan Rishabhadeva, the first Tirthankar, the propagator of religion at the beginning of this era. य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - ह...

कल्याण मन्दिर स्तोत्र || Shri Kalyan Mandir Stotra Sanskrit

कल्याण- मन्दिरमुदारमवद्य-भेदि भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् । संसार-सागर-निमज्जदशेषु-जन्तु - पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठ-स्मय- धूमकेतो- स्तस्याहमेष किल संस्तवनं करष्येि ॥ २ ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप- मस्मादृशः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिक- शिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल घर्मरश्मेः ॥३ ॥ मोह-क्षयादनुभवन्नपि नाथ मर्त्यो नूनं गुणान्गणयितुं न तव क्षमेत। कल्पान्त-वान्त- पयसः प्रकटोऽपि यस्मा- मीयेत केन जलधेर्ननु रत्नराशिः ॥४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्य-गुणाकरस्य । बालोऽपि किं न निज- बाहु-युगं वितत्य विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जाता तदेवमसमीक्षित-कारितेयं जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचिन्त्य - महिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहत- पान्थ-जनान्निदाघे प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥७॥ द्वर्तिनि त्वयि विभो ...

लघु शांतिधारा - Laghu Shanti-Dhara

||लघुशांतिधारा || ॐ नमः सिद्धेभ्यः ! ॐ नमः सिद्धेभ्यः ! ॐ नमः सिद्धेभ्यः ! श्री वीतरागाय नमः ! ॐ नमो अर्हते भगवते श्रीमते, श्री पार्श्वतीर्थंकराय, द्वादश-गण-परिवेष्टिताय, शुक्लध्यान पवित्राय,सर्वज्ञाय, स्वयंभुवे, सिद्धाय, बुद्धाय, परमात्मने, परमसुखाय, त्रैलोकमाही व्यप्ताय, अनंत-संसार-चक्र-परिमर्दनाय, अनंत दर्शनाय, अनंत ज्ञानाय, अनंतवीर्याय, अनंत सुखाय सिद्धाय, बुद्धाय, त्रिलोकवशंकराय, सत्यज्ञानाय, सत्यब्राह्मने, धरणेन्द्र फणामंडल मन्डिताय, ऋषि- आर्यिका,श्रावक-श्राविका-प्रमुख-चतुर्संघ-उपसर्ग विनाशनाय, घाती कर्म विनाशनाय, अघातीकर्म विनाशनाय, अप्वायाम(छिंद छिन्दे भिंद-भिंदे), मृत्यु (छिंद-छिन्देभिंद-भिंदे), अतिकामम (छिंद-छिन्दे भिंद-भिंदे), रतिकामम (छिंद-छिन्देभिंद-भिंदे), क्रोधं (छिंद-छिन्दे भिंद-भिंदे), आग्निभयम (छिंद-छिन्देभिंद-भिंदे), सर्व शत्रु भयं (छिंद-छिन्दे भिंद-भिंदे), सर्वोप्सर्गम(छिंद-छिन्दे भिंद-भिंदे), सर्व विघ्नं (छिंद-छिन्दे भिंद-भिंदे), सर्व भयं(छिंद-छिन्दे भिंद-भिंदे), सर्व राजभयं (छिंद-छिन्दे भिंद-भिंदे), सर्वचोरभयं (छिंद-छिन्दे भिंद-भिंदे...

बारह भावना (राजा राणा छत्रपति) || BARAH BHAVNA ( Raja rana chatrapati)

|| बारह भावना ||  कविश्री भूध्ररदास (अनित्य भावना) राजा राणा छत्रपति, हाथिन के असवार | मरना सबको एक दिन, अपनी-अपनी बार ||१|| (अशरण भावना) दल-बल देवी-देवता, मात-पिता-परिवार | मरती-बिरिया जीव को, कोई न राखनहार ||२|| (संसार भावना) दाम-बिना निर्धन दु:खी, तृष्णावश धनवान | कहूँ न सुख संसार में, सब जग देख्यो छान ||३|| (एकत्व भावना) आप अकेला अवतरे, मरे अकेला होय | यों कबहूँ इस जीव को, साथी-सगा न कोय ||४|| (अन्यत्व भावना) जहाँ देह अपनी नहीं, तहाँ न अपना कोय | घर-संपति पर प्रगट ये, पर हैं परिजन लोय ||५|| (अशुचि भावना) दिपे चाम-चादर-मढ़ी, हाड़-पींजरा देह | भीतर या-सम जगत् में, अवर नहीं घिन-गेह ||६|| (आस्रव भावना) मोह-नींद के जोर, जगवासी घूमें सदा | कर्म-चोर चहुँ-ओर, सरवस लूटें सुध नहीं ||७|| (संवर भावना) सतगुरु देय जगाय, मोह-नींद जब उपशमे | तब कछु बने उपाय, कर्म-चोर आवत रुकें || (निर्जरा भावना) ज्ञान-दीप तप-तेल भर, घर शोधें भ्रम-छोर | या-विध बिन निकसे नहीं, पैठे पूरब-चोर ||८|| पंच-महाव्रत संचरण, समिति पंच-परकार | ...

छहढाला -श्री दौलतराम जी || Chah Dhala , Chahdhala

छहढाला | Chahdhala -----पहली ढाल----- तीन भुवन में सार, वीतराग विज्ञानता । शिवस्वरूप शिवकार, नमहुँ त्रियोग सम्हारिकैं॥ जे त्रिभुवन में जीव अनन्त, सुख चाहैं दु:खतैं भयवन्त । तातैं दु:खहारी सुखकार, कहैं सीख गुरु करुणा धार॥(1) ताहि सुनो भवि मन थिर आन, जो चाहो अपनो कल्यान। मोह-महामद पियो अनादि, भूल आपको भरमत वादि॥(2) तास भ्रमण की है बहु कथा, पै कछु कहूँ कही मुनि यथा। काल अनन्त निगोद मंझार, बीत्यो एकेन्द्री-तन धार॥(3) एक श्वास में अठदस बार, जन्म्यो मर्यो भर्यो दु:ख भार। निकसि भूमि-जल-पावकभयो,पवन-प्रत्येक वनस्पति थयो॥(4) दुर्लभ लहि ज्यों चिन्तामणि, त्यों पर्याय लही त्रसतणी। लट पिपीलि अलि आदि शरीर, धरिधरि मर्यो सही बहुपीर॥(5) कबहूँ पंचेन्द्रिय पशु भयो, मन बिन निपट अज्ञानी थयो। सिंहादिक सैनी ह्वै क्रूर, निबल-पशु हति खाये भूर॥(6) कबहूँ आप भयो बलहीन, सबलनि करि खायो अतिदीन। छेदन भेदन भूख पियास, भार वहन हिम आतप त्रास ॥(7) वध-बन्धन आदिक दु:ख घने, कोटि जीभतैं जात न भने । अति संक्लेश-भावतैं मर्यो, घोर श्वभ्र-सागर में पर्यो॥(8) तहाँ भूमि परसत दु:ख इसो, बिच्छू सहस डसै ...

BHAKTAMAR STOTRA MAHIMA / भक्तामर-स्तोत्र महिमा

पं. हीरालाल जैन ‘कौशल’ श्री भक्तामर का पाठ, करो नित प्रात, भक्ति मन लाई | सब संकट जायँ नशाई || जो ज्ञान-मान-मतवारे थे, मुनि मानतुङ्ग से हारे थे | चतुराई से उनने नृपति लिया बहकाई। सब संकट जायँ नशाई ||१|| मुनि जी को नृपति बुलाया था, सैनिक जा हुक्म सुनाया था | मुनि-वीतराग को आज्ञा नहीं सुहाई। सब संकट जायँ नशाई ||२|| उपसर्ग घोर तब आया था, बलपूर्वक पकड़ मंगाया था | हथकड़ी बेड़ियों से तन दिया बंधाई। सब संकट जायँ नशाई ||३|| मुनि कारागृह भिजवाये थे, अड़तालिस ताले लगाये थे | क्रोधित नृप बाहर पहरा दिया बिठाई। सब संकट जायँ नशाई ||४|| मुनि शांतभाव अपनाया था, श्री आदिनाथ को ध्याया था | हो ध्यान-मग्न ‘भक्तामर’ दिया बनाई। सब संकट जायँ नशाई ||५|| सब बंधन टूट गये मुनि के, ताले सब स्वयं खुले उनके | कारागृह से आ बाहर दिये दिखाई। सब संकट जायँ नशाई ||६|| राजा नत होकर आया था, अपराध क्षमा करवाया था | मुनि के चरणों में अनुपम-भक्ति दिखाई। सब संकट जायँ नशाई ||७|| जो पाठ भक्ति से करता है, नित ऋभष-चरण चित धरता है | जो ऋद्धि-मंत्र का विधिवत् जाप कराई। सब संकट...

भक्तामर स्तोत्र (हिन्दी) || BHAKTAMAR STOTRA (HINDI

|| भक्तामर स्तोत्र (हिन्दी) ||  कविश्री पं. हेमराज आदिपुरुष आदीश जिन, आदि सुविधि करतार | धरम-धुरंधर परमगुरु, नमूं आदि अवतार || (चौपाई छन्द) सुर-नत-मुकुट रतन-छवि करें, अंतर पाप-तिमिर सब हरें । जिनपद वंदूं मन वच काय, भव-जल-पतित उधरन-सहाय ।।१।। श्रुत-पारग इंद्रादिक देव, जाकी थुति कीनी कर सेव | शब्द मनोहर अरथ विशाल, तिन प्रभु की वरनूं गुन-माल ||२|| विबुध-वंद्य-पद मैं मति-हीन, हो निलज्ज थुति मनसा कीन | जल-प्रतिबिंब बुद्ध को गहे, शशिमंडल बालक ही चहे ||३|| गुन-समुद्र तुम गुन अविकार, कहत न सुर-गुरु पावें पार | प्रलय-पवन-उद्धत जल-जंतु, जलधि तिरे को भुज बलवंतु ||४|| सो मैं शक्ति-हीन थुति करूँ, भक्ति-भाव-वश कछु नहिं डरूँ | ज्यों मृगि निज-सुत पालन हेत, मृगपति सन्मुख जाय अचेत ||५|| मैं शठ सुधी-हँसन को धाम, मुझ तव भक्ति बुलावे राम | ज्यों पिक अंब-कली परभाव, मधु-ऋतु मधुर करे आराव ||६|| तुम जस जंपत जन छिन माँहिं, जनम-जनम के पाप नशाहिं | ज्यों रवि उगे फटे ततकाल, अलिवत् नील निशा-तम-जाल ||७|| तव प्रभाव तें कहूँ विचार, होसी यह थुति जन-मन-हार | ...