नम: श्रीवद्र्धमानाय निर्धूतकलिलात्मने। सालोकानां त्रिलोकानां यद्विद्या दर्पणायते॥ 1॥ देशयामि समीचीनं, धर्मं कर्मनिबर्र्हणम्। संसारदु:खत: सत्त्वान्, यो धरत्युत्तमे सुखे॥ 2॥ सद्दृष्टिज्ञानवृत्तानि, धर्मं धर्मेश्वरा विदु:। यदीयप्रत्यनीकानि, भवन्ति भवपद्धति:॥ 3॥ श्रद्धानं परमार्थाना-माप्तागम-तपोभृताम् । त्रिमूढापोढ- मष्टाङ्गं, सम्यग्दर्शन-मस्मयम्॥ 4॥ आप्तेनोच्छिन्नदोषेण, सर्वज्ञेनागमेशिना। भवितव्यं नियोगेन, नान्यथा ह्याप्तता भवेत्॥ 5॥ क्षुत्पिपासा-जरातङ्क -जन्मान्तक-भयस्मया:। न रागद्वेषमोहाश्च, यस्याप्त: स प्रकीत्र्यते॥ 6॥ परमेष्ठी परंज्योतिर्र्विरागो विमल: कृती। सर्वज्ञोऽनादिमध्यान्त:, सार्व: शास्तोपलाल्यते॥ 7॥ अनात्मार्थं विना रागै:, शास्ता शास्ति सतो हितम्। ध्वनन् शिल्पिकरस्पर्शान्मुरज: किमपेक्षते॥ 8॥ आप्तोपज्ञमनुल्लङ्घ्य- मदृष्टेष्टविरोधकम्। तत्त्वोपदेशकृत्सार्वं, शास्त्रं कापथघट्टनम्॥ 9॥ विषयाशावशातीतो, निर...
Jinvaani path, pooja & stotra