अथ नवग्रहशांति स्तोत्रम् जगद्गुरू नमस्कृत्य श्रुत्वा सद्गुरूभाषितम्। ग्रहशांतिं प्रवक्ष्यामि लोकानां सुखहेतवे।।1।। जिनेन्द्राः खेचरा ज्ञेयाः पूजनीया विधिक्रमात्। पुष्पैर्विलेपनैर्धूपैनैंवेद्यैस्तुष्टिहेतवे।।2।। पद्मप्रभस्य मार्तण्डश्चन्द्रः चन्द्रप्रभस्य च। वासुपूज्यस्य भूपुत्रो बुधश्चाष्टजिनेशिनाम्।।3।। विमलानन्तधर्माराः शांतिः कुंथुर्नमिस्तथा। वर्धमानजिनेन्द्रस्य पादपद्मं बुधो नमेत्।।4।। ऋषभाजितसुपाश्र्वाः साभिनंदनशीतलौ। सुमतिः संभवस्वामी, श्रेयसश्च वृहस्पतिः।।5।। सुविधिः कथितः शुक्रे, सुव्रतश्च शनिश्चरे। नेमिनाथो भवेद् राहोः केतुश्चमल्लिपाश्र्वयोः।।6।। जन्मलग्नं च राशिश्च, यदि पीडयंति खेचराः। तदा संपूजयेत् धीमान्, खेचरान् सह तान् जिनान्।।7।। आदित्यसोममंगल-बुधगुरूशुक्राः शनिः। राहुकेतुमेरवाग्रे यो जिनपूजाविधायकः।।8।। जिनागारे गतः कृत्वा, ग्रहाणां तुष्टिहेतवे। नमस्कारशतं भक्त्या जपेदष्टोत्तरं शतम्।।9।। भ्रदबाहुगुरूर्वाग्मी पंचमः श्रुतकेवली। विद्याप्रसादतः2 पूर्वं ग्रहशांतिः विधिः कृता।।10।। यः पठेत् प्रातरूत्थाय शुचिर्भूत्वा समाहितः। विपत्तितो भवेच्छांतिः क्षेमं तस्य पदे पदे।।11।। भाव...
Jinvaani path, pooja & stotra