Mook Matti
----पूजा विधि प्रारम्भ---- ॐ जय! जय! जय! नमोस्तु! नमोस्तु! नमोस्तु! णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं || ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः |( पुष्पांजलि क्षेपण करें) चत्तारि मंगलं अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं | चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो | चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि, केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि || ॐ नमोऽर्हते स्वाहा | (पुष्पांजलि क्षेपण करें) ----मंगल विधान---- अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा | ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते ||(1) अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ||(2) अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः | मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः ||(3) एसो पंच-णमोयारो, सव्व-पावप्पणासणो | मंगलाणं च सव्वेसिं, पढमं होइ मंगलम् ||(4) अर...