Skip to main content

Posts

Showing posts with the label संस्कृत-Sanskrit

भक्तामर स्तोत्र (संस्कृत) || BHAKTAMAR STOTRA ( SANSKRIT )

श्री आदिनाथाय नमः भक्तामर - प्रणत - मौलि - मणि -प्रभाणा- मुद्योतकं दलित - पाप - तमो - वितानम्। सम्यक् -प्रणम्य जिन - पाद - युगं युगादा- वालम्बनं भव - जले पततां जनानाम्।। 1॥ य: संस्तुत: सकल - वाङ् मय - तत्त्व-बोधा- दुद्भूत-बुद्धि - पटुभि: सुर - लोक - नाथै:। स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारै:, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम्॥ 2॥ >> भक्तामर स्तोत्र ( हिन्दी) || आदिपुरुष आदीश जिन, आदि सुविधि करतार ... || कविश्री पं. हेमराज >> भक्तामर स्तोत्र ( संस्कृत )-हिन्दी अर्थ अनुवाद सहित-with Hindi arth & English meaning- क्लिक करें.. https://forum.jinswara.com/uploads/default/original/2X/8/86ed1ca257da711804c348a294d65c8978c0634a.mp3 बुद्ध्या विनापि विबुधार्चित - पाद - पीठ! स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम्। बालं विहाय जल-संस्थित-मिन्दु-बिम्ब- मन्य: क इच्छति जन: सहसा ग्रहीतुम् ॥ 3॥ वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्, कस्ते क्षम: सुर - गुरु-प्रतिमोऽपि बुद्ध्या । कल्पान्त -काल - पवनोद्धत-...

RISHIMANDAL STOTRAM / ऋषिमण्डल स्तोत्रम्

ऋषिमण्डल स्तोत्रम् आद्यंताक्षरसंलक्ष्यमक्षरं व्याप्य यत्स्थितम् | अग्निज्वालासमं नादं बिन्दुरेखासमन्वितम् ||१|| अग्निज्वाला-समाक्रान्तं मनोमल-विशोधनम् | दैदीप्यमानं हृत्पद्मे तत्पदं नौमि निर्मलम् ||२|| युग्मम् | ॐ नमोऽर्हद्भ्य : ऋषेभ्य: ॐ सिद्धेभ्यो नमो नम: | ॐ नम: सर्वसूरिभ्य: उपाध्यायेभ्य: ॐ नम: ||३|| ॐ नम: सर्वसाधुभ्य: तत्त्वदृष्टिभ्य: ॐ नम: | ॐ नम: शुद्धबोधेभ्यश्चारित्रेभ्यो नमो नम: ||४|| युग्मम् | श्रेयसेऽस्तु श्रियेऽस्त्वेतदर्हदाद्यष्टकं शुभम् | स्थानेष्वष्टसु संन्यस्तं पृथग्बीजसमन्वितम् ||५|| आद्यं पदं शिरो रक्षेत् परं रक्षतु मस्तकम् | तृतीय रक्षेन्नेत्रे द्वे तुर्यं रक्षेच्च नासिकाम् ||६|| पंचमं तु मुखं रक्षेत् षष्ठं रक्षतु कण्ठिकाम् | सप्तमं रक्षेन्नाभ्यंतं पादांतं चाष्टमं पुन: ||७|| युग्मम् | पूर्व प्रणवत: सांत: सरेफो द्वित्रिपंचषान् | सप्ताष्टदशसूर्यांकान् श्रितो बिन्दुस्वरान् पृथक् ||८|| पूज्यनामाक्षराद्यास्तु पंचदर्शनबोधकम् | चारित्रेभ्यो नमो मध्ये ह्रीं सांतसमलंकृतम ||9|| जाप्य मंत्र:- ॐ ह्रां ह्रीं ह्रुं ह्रूं ह...

कल्याण मन्दिर स्तोत्र || Shri Kalyan Mandir Stotra Sanskrit

कल्याण- मन्दिरमुदारमवद्य-भेदि भीताभय-प्रदमनिन्दितमङ्घ्रि- पद्मम् । संसार-सागर-निमज्जदशेषु-जन्तु - पोतायमानमभिनम्य जिनेश्वरस्य ॥१ ॥ यस्य स्वयं सुरगुरुर्गरिमाम्बुराशेः स्तोत्रं सुविस्तृत-मतिर्न विभुर्विधातुम् । तीर्थेश्वरस्य कमठ-स्मय- धूमकेतो- स्तस्याहमेष किल संस्तवनं करष्येि ॥ २ ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप- मस्मादृशः कथमधीश भवन्त्यधीशाः । धृष्टोऽपि कौशिक- शिशुर्यदि वा दिवान्धो रूपं प्ररूपयति किं किल घर्मरश्मेः ॥३ ॥ मोह-क्षयादनुभवन्नपि नाथ मर्त्यो नूनं गुणान्गणयितुं न तव क्षमेत। कल्पान्त-वान्त- पयसः प्रकटोऽपि यस्मा- मीयेत केन जलधेर्ननु रत्नराशिः ॥४ ॥ अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि कर्तुं स्तवं लसदसंख्य-गुणाकरस्य । बालोऽपि किं न निज- बाहु-युगं वितत्य विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश वक्तुं कथं भवति तेषु ममावकाशः। जाता तदेवमसमीक्षित-कारितेयं जल्पन्ति वा निज-गिरा ननु पक्षिणोऽपि ॥६॥ आस्तामचिन्त्य - महिमा जिन संस्तवस्ते नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहत- पान्थ-जनान्निदाघे प्रीणाति पद्म-सरसः सरसोऽनिलोऽपि ॥७॥ द्वर्तिनि त्वयि विभो ...

समाधी भक्ति संस्कृत | Samadhi Bhakti Sanskrit

स्वात्माभिमुख-संवित्ति, लक्षणं श्रुत-चक्षुषा। पश्यन्पश्यामि देव त्वां केवलज्ञान-चक्षुषा॥ शास्त्राभ्यासो, जिनपति-नुति: सङ्गति सर्वदार्यै:। सद्वृत्तानां,गुणगण-कथा,दोषवादे च मौनम्॥ १॥ सर्वस्यापि प्रिय-हित-वचो भावना चात्मतत्त्वे। संपद्यन्तां, मम भव-भवे यावदेतेऽपवर्ग:॥ २॥ जैनमार्ग-रुचिरन्यमार्ग निर्वेगता, जिनगुण-स्तुतौ मति:। निष्कलंक विमलोक्ति भावना: संभवन्तु मम जन्मजन्मनि॥ ३॥ गुरुमूले यति-निचिते, - चैत्यसिद्धान्त वार्धिसद्घोषे। मम भवतु जन्मजन्मनि,सन्यसनसमन्वितं मरणम्॥ ४॥ जन्म जन्म कृतं पापं, जन्मकोटि समार्जितम्। जन्म मृत्यु जरा मूलं, हन्यते जिनवन्दनात्॥ ५॥ आबाल्याज्जिनदेवदेव! भवत:, श्रीपादयो: सेवया, सेवासक्त-विनेयकल्प-लतया,कालोऽद्यया-वद्गत:। त्वां तस्या: फलमर्थये तदधुना, प्राणप्रयाणक्षणे, त्वन्नाम-प्रतिबद्ध-वर्णपठने,कण्ठोऽस्त्व-कुण्ठो मम॥ ६॥ तवपादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्। तिष्ठतु जिनेन्द्र! तावद् यावन्निर्वाण-संप्राप्ति:॥ ७॥ एकापि समर्थेयं, जिनभक्ति र्दुर्गतिं निवारयितुम...

शांति भक्ति संस्कृत | Shanti Bhakti Sanskrit

न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा, हेतुस्तत्र विचित्र-दु:ख-निचय:, संसार घोरार्णव:। अत्यन्त-स्फुरदुग्र - रश्मि -निकर,-व्याकीर्ण-भूमण्डलो, ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रवि:॥ १॥ क्रुद्धाशीर्विष-दष्ट-दुर्जय-विष,-ज्वालावली विक्रमो, विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा। तद्वत्ते चरणारुणाम्बुज-युगस्, - तोत्रोन्मुखानां नॄणां, विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मय:॥ २॥ सन्तप्तोत्तम - काञ्चन - क्षितिधर, श्रीस्पद्र्धि-गौरद्युते, पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्। उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता, नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥ त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्, नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसारिण:। को वा प्रस्खलतीह केन विधिना, कालोग्र-दावानलान्, न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥ ४॥ लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्र्ते विभो! नाना - रत्न - पिन...

सिद्ध भक्ति संस्कृत | Siddha Bhakti Sanskrit

स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि। लोकालोकविलोक -नलोलितसल्लोकलोचनानि सदा॥१॥ अभिमुखनियमितबोधनमाभिनिबोधिकमनिन्द्रियेन्द्रियजम्। बह्वाद्यवग्रहादिककृत-षट्त्रिंशत्-त्रिशत-भेदम्॥२॥ विविधद्र्धिबुद्धि-कोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं। संभिन्न-श्रोतृ-तया, सार्धं श्रुत-भाजनं वन्दे॥ ३॥ श्रुतमपि जिनवर-विहितं गणधररचितं द्व्यनेकभेदस्थम्। अङ्गाङ्ग-बाह्य-भावित-मनन्त-विषयं नमस्यामि॥ ४॥ पर्यायाक्षर-पद-संघात-प्रतिपत्तिकानुयोग -विधीन्। प्राभृतक-प्राभृतकं प्राभृतकं वस्तु-पूर्वं च॥ ५॥ तेषां समासतोऽपि च विंशतिभेदान् समश्नुवानं तत्। वन्दे द्वादशधोक्तं गम्भीर-वर-शास्त्र-पद्धत्या॥ ६॥ आचारं सूत्रकृतं स्थानं समवाय-नामधेयं च। व्याख्या-प्रज्ञप्तिं च ज्ञातृकथोपासकाध्ययने॥ ७॥ वन्देऽन्तकृद्दश-मनुत्तरोपपादिकदशं दशावस्थम्। प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि॥ ८॥ परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते। साद्र्धं चूलिकयापि च पञ्चविधं दृष्टिवादं च॥ ९॥ पूर्वगतं तु चतुर्दशधोदित-मुत्पादपूर्व-माद्यमहम्। आग्रायणीय-मीडे पुरु-वीर्यानुप्रवाद...