स्वात्माभिमुख-संवित्ति, लक्षणं श्रुत-चक्षुषा। पश्यन्पश्यामि देव त्वां केवलज्ञान-चक्षुषा॥ शास्त्राभ्यासो, जिनपति-नुति: सङ्गति सर्वदार्यै:। सद्वृत्तानां,गुणगण-कथा,दोषवादे च मौनम्॥ १॥ सर्वस्यापि प्रिय-हित-वचो भावना चात्मतत्त्वे। संपद्यन्तां, मम भव-भवे यावदेतेऽपवर्ग:॥ २॥ जैनमार्ग-रुचिरन्यमार्ग निर्वेगता, जिनगुण-स्तुतौ मति:। निष्कलंक विमलोक्ति भावना: संभवन्तु मम जन्मजन्मनि॥ ३॥ गुरुमूले यति-निचिते, - चैत्यसिद्धान्त वार्धिसद्घोषे। मम भवतु जन्मजन्मनि,सन्यसनसमन्वितं मरणम्॥ ४॥ जन्म जन्म कृतं पापं, जन्मकोटि समार्जितम्। जन्म मृत्यु जरा मूलं, हन्यते जिनवन्दनात्॥ ५॥ आबाल्याज्जिनदेवदेव! भवत:, श्रीपादयो: सेवया, सेवासक्त-विनेयकल्प-लतया,कालोऽद्यया-वद्गत:। त्वां तस्या: फलमर्थये तदधुना, प्राणप्रयाणक्षणे, त्वन्नाम-प्रतिबद्ध-वर्णपठने,कण्ठोऽस्त्व-कुण्ठो मम॥ ६॥ तवपादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्। तिष्ठतु जिनेन्द्र! तावद् यावन्निर्वाण-संप्राप्ति:॥ ७॥ एकापि समर्थेयं, जिनभक्ति र्दुर्गतिं निवारयितुम...
Jinvaani path, pooja & stotra